अपित्येतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्तृ क्षत्तृ होतृ पोतृ पशास्तृ इत्येतेषां चाङ्गानाम् उपधाया दीर्घो भवति सर्वनामस्थाने परतो ऽसम्बुद्धौ। अप् आपः। बह्वाम्पि तडागानि इति केचिदिच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते। नित्यम् अपि च नुममकृत्व दीर्घत्वम् इष्यते। तृन् कर्तारौ कटान्। वदितारौ जनापवादान्। कर्तारः। तृच् कर्तारौ कटस्य। कर्तारः। हर्तारौ भारस्य। हर्तारः। स्वसृ स्वसा, स्वसारौ, स्वसारः। नप्तृ नप्ता, नप्तारौ, नप्तारः। नेष्टृ नेष्टा, नेष्टारौ, नेष्टारः। त्वष्टृ त्वष्टा, त्वष्टारौ, त्वष्टारः। क्षत्तृ क्षत्ता, क्षत्तारौ, क्षत्तारः। होतृ होता, होतारौ, होतारः। पोतृ पोता, पोतारौ, पोतारः। प्रशास्तृ प्रशास्ता, प्रशास्तारौ, प्रशास्तारः। नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम्। व्युत्पत्तिपक्षे नियमार्थम्, एवम् भूतानाम् अन्येषां संज्ञाशब्दानां दीर्घो मा भूतिति। पितरौ, पितरः। मातरौ,मातरः। असम्बुद्धौ इति किम्? हे कर्तः। हे स्वसः।
अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥
"आपः" इति। अप्शब्दस्य बहुत्वादेकवचनद्विवचने न सम्भवत इति बहुवचनमुपन्यस्तम्()। "बह्वाम्पि" इति। बहव आप एष्विति बहुव्रीहिः।
तदन्तविधेरिष्टत्वात्? तदन्तस्यापि दीर्घत्वं भवति। तथा हि "येन विधिस्तदन्तस्य"
१।१।७१ इत्यत्र सूत्रे "कानि पुनरत्र प्रयोजनानि" इति प्रश्ने इदमुक्तं प्रयोजनम्()--महदपस्वसृनप्तृनेष्टृत्वष्टृ इति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते यावता "ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते" (व्या।पा।
८९)? नैष दोषः; "सर्वनामस्थाने चासम्बृद्धौ"
६।४।८ इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेन तदन्तस्यापि दीर्घत्वं भविष्यति।
"केचित्" इति वचनात्? केचिन्नेच्छन्तीत्युक्तम्()। तन्मतेन बह्वम्पीत्येवं भवति।
कस्मात्? पुनरत्र "ऋक्पूरब्धूःपथामानक्षे" (५।४।
७४) इत्यनेनाकारः समासान्तो न क्रियते? इत्याह--"तत्र समासान्तो विधिरनित्यः" इत्यादि। इयञ्च परिभाषा "स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनाम नाम च"
६।२।१८६ इत्यत्राध्वग्रहणेन ज्ञापिता। यथाध्वग्रहणं ज्ञापकं तथा तत्रैदोक्तम्()। नन्वेवमपि बह्वाम्पीति नैव सम्भवति, तथा हि--बह्वप्()+शि इति स्थितेऽनेन दीर्घत्वं प्राप्नोति, "नपुसकस्य झलचः" (७।१।
७२) इति नुम्? च,
तत्र कृतकृतप्रङ्गित्वेन नित्यत्वात्? परत्वाच्च नुम्? कत्र्तव्यः,
तस्मिन्? कृत उपधाया अदीर्घभाविनीत्वाद्दीर्घत्वं न प्राप्नोति? इत्यत आह--"नित्यमपि च" इत्यादि।
नित्यमपीत्यपिशब्दात्? परमपि।
कथं पुनरिष्यमाणं नुममकृत्वा दीर्घत्वं लक्ष्यते? "वा षपूर्वस्य निगमे"
६।४।९ इत्यतः पूर्वग्रहणानुवृत्तेः।
तस्यैतदेव प्रयोजनम्()--यदन्यत्? कार्यं प्राप्नोति तदकृत्वा दीर्घत्वमेव पूर्व कत्र्तव्यमिति।
अन्यस्त्वाह--"नपुंसकस्य झलचः" (७।१।
७२) इति नुम्? विधीयते, नपुंसकञ्चार्थधर्मः,
अर्थे च शब्दानुशासनेऽस्मिन्? कार्याभावान्नपुंसकामिधायी शब्दो नुम्विधावाश्रयणीयः। तञ्च शब्दं ग्रहीतुं प्रयोगोऽनुगमनीय इति नुमो बहिरङ्गत्वम्()। अयं तु दीर्घः साक्षादप्शब्दमुच्चार्य विधीयमानो यथोच्चारितस्यैव क्रियमाणोऽल्पाश्रयत्वादन्तरङ्ग इति पूर्वं दीर्घः प्रवत्र्तते, पश्चान्नुमिति। एतच्चायुक्तम्(), अनेन हि न्यायेन बह्वाम्पीति न सिध्येत्()। एवदपि कैश्चिदिष्यते--अस्य च न्यायस्य साधारणत्वादिहापि पर्वमेव दीर्घत्वेन भवितव्यम्(), पश्चान्नुमा। पूर्व()स्मस्तु परिहारे न दोषः। ये हि बह्वम्पीतीच्छन्ति ते पूर्वग्रहणमिह नानुवत्र्तयन्ति।
"कत्र्तारः" इति। तच्छीलादावर्थे तृन्निति "ऋतो ङिसर्वनामस्थानयोः"
७।३।११० इति गुणः। "जनापवादान्()" इति। द्वितीयान्तस्यानुप्रयोगस्तृन्नन्ततां दर्शयितुम्()। तृनो हि प्रयोगे "न लोकाव्ययनिष्ठा"
२।३।६९ इत्यादिना षष्ठ()आं प्रतिषिद्धायाम्(), द्वितीयैव भवति। एकवचनं नोदाह्मतम्()। तत्र "ऋदुशनस्पुरुदंशोऽनेहसाञ्च"
७।१।९४ इत्यनङादेशे कृते "नोपधायाः"
६।४।७ "सर्वनामस्थाने च"
६।४।८ इत्यादिना दीर्घस्य सिद्धत्वात्()। "कटस्य" इति षष्ठ()न्तस्यानुप्रयोगस्तृचोऽभिव्यक्तये। तस्य प्रयोगे कर्मणि षष्ठी भवति "कर्त्तृ कर्मणोः कृति"
२।३।६५ इत्यनेन। अथ यथा "तुरिष्ठेमेयस्सु" (६।४।
१५४) इत्यत्र तुरिति तृंस्तृचोर्यत्? समानं रूपं तस्यैव ग्रहणं कृतम्(), न तु तयोर्भेदेन,
ततेहापि किमर्थं न कृताम्()? "अर्वणस्त्रसावनञः"
६।४।१२७ इत्यर्वादेशस्य तृशब्दस्य ग्रहणं मा भूदित्येवमर्थमिति चेत्(),
नैतत्? प्रयोजनम्(); अर्थवद्ग्रहणपरिभाषयैव (व्या।प।१) हि तस्य ग्रहणं न भविष्यति। एवं तृंस्तृचोर्भेदेनोपादानमस्याः परिभाषाया अनित्यत्वज्ञापनार्थम्()। तेन "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च प्रयोजयन्ति" (व्या।प।१२९) इत्युपपन्नं भवति। अथ वा--"सामान्यनिर्देशे क्वचिद्विशेष एव गृह्रते" इति ज्ञापनार्थम्()। तेन "न कोपधायाः"
६।३।३६ इत्यत्र सामान्योक्तावपि तद्धितवुसम्बन्ध्येव ककारो गृह्रते, न ककारमात्रम्()।
अथ नप्त्रादीनां ग्रहणं किमर्थम्(),
यावता ते हि केचित्? तृजन्ता व्युत्पाद्यन्ते केचित्? तृन्नन्ताः।
तत्र तृस्तृज्ग्रहणेनैव सिदधम्()? इत्याह--"नप्त्रादीनाम्()" इत्यादि। केचिदार्या नप्त्रादीन्यक्ष्युत्पन्नानि प्रातिपदिकानीच्छन्ति, केचिद्व्युत्पन्नानि। तत्रैषा व्युत्पत्तिः--नप्त्रिति नमेस्तृचि मकारस्य पकारो निपात्यते।
नेष्ट्रति--नयतेस्तृचि षुक्? च। त्वष्ट्रिति--त्विषेस्तत्रैवाकार उप(धाया अनिट्त्वञ्च। क्षित्रिति--क्षदेस्तृच्()। होतृपोत्रिति-जृहोतेः पुनातेश्च स एव। प्रशास्त्रिति--शासेः [तृन्()तृचौ शंसिक्षदादिब्यः संज्ञायां चानिटौ--पं।उ।२।९४] प्रपूर्वाच्छसिक्षदादिभ्यः संज्ञायां चानिट्त्वञ्चेति तृन्ननिट्त्वञ्च।
तत्राव्युत्पत्तिपक्ष एषां तृन्तृजन्तत्वाभावात्? तृंस्तृज्ग्रहणेन ग्रहणं न भवतीति विध्यर्थ पृथगुपादानम्()। व्युत्पत्तिपक्षे तु तृंस्तृजन्तादेव सिद्धे नियमार्थम्()--एषामेव संज्ञाशब्दानां यथा स्यात्(), अन्ये य एवम्भूताः संज्ञाशब्दास्तेषां मा भूदिति। तेन मातरौ मातरः इत्यादौ न भवति। अथ प्रशास्तृणामित्यत्र केन णत्वम्(), "रषाभ्याम्()" (८।४।
१) इत्यादिनेति चेत्()? न;
यस्मात्? "रषाभ्याम्()" इत्युच्यते, न च#आत्र रषौ स्तः। एवं तह्र्रेष निर्देशी ज्ञापयति--यतो विहितं णत्वं ततोऽन्यत्रापि भवतीति।
तेन मातृ()णाम्? पितृ()णाम्(), ग्रामणीः अग्रणोरित्यादौ णत्वं सिद्धं भवति।
ततश्च रषाभ्यां णत्वे "ऋवर्णाच्चचेति वक्तव्यम्()" (वा।
९४६) न वक्तव्यं भवति॥